सितवसन मितहसन मधुमितरसनवति
विधिरमणि तव न भव उपमितिमनुभवति॥१॥
निगम -तिलकितवपुरुषशि तव दिवि लसति
यदुपनतदृशी विनतजगदधिचिति वसति
वटुवरटकुलमपि च वलदपचिति भवति
विधिरमणि तव न भव उपमितिमनुभवति ॥२॥
करकलित जपवलित मणिगुण उरु चलति
स हि सततमपि जगति शुभगतिमनुफलति
नवल मतिझरमिह तरलयति यतिमवति
विधिरमणि तव न भव उपमितिमनुभवति ॥३॥
तव ललितरव-तत कुकुभ परिमिलदुरसि
तरति सुतरतिनुलहरिरिव हिमसरसि
विबुधजनकृतसुकृतिरिहजनमभिभवति
विधिरमणि तव न भव उपमितिमनुभवति ॥४॥
त्रिपाठी भास्कराचार्य
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें